Bangla Prityangra Kavacham

°°°°°°रुद्रयामलम तंत्र से°°°°°°

॥श्री बगलाप्रत्यंगिरा कवचम् ॥


विनियोगः :- अस्य श्री बगला प्रत्यंगिरा मन्त्रस्य नारद ऋषिस्त्रिष्टुप् छन्दः, प्रत्यंगिरा देवता, ह्रीं बीजं, हुं

शक्तिः ह्रीं कीलकं, ह्रीं ह्रीं ह्रीं ह्रीं प्रत्यंगिरा मम शत्रु विनाशे विनियोगः ।


ॐ प्रत्यंगिरायै नमः

प्रत्यंगिरे सकल कामान् साधय मम रक्षां कुरु कुरु सर्वान शत्रून् खादय खादय मारय मारय घातय घातय ॐ ह्रीं फट् स्वाहा ।


ॐ भ्रामरी स्तभ्भिनी देवी क्षोभिणीमोहिनी तथा ।

 संहारिणी द्राविणीच जृम्भिणी रौद्ररूपिणी ॥

इत्यष्टौ शक्तयो देवि शत्रु पक्षे नियोजिताः ।

धारयेत् कण्ठदेशे च सर्वशत्रु विनाशिनी ॥


ॐ ह्रीं भ्रामरि सर्वशत्रून् भ्रामाय भ्रामय ॐ ह्रीं स्वाहा ।

ॐ ह्रीं स्तम्भिनी मम शत्रून् स्तम्भय स्तम्भय ॐ ह्रीं

स्वाहा ।

ॐ ह्रीं क्षोभिणि मम शत्रून् क्षोभय क्षोभय ॐ ह्रीं स्वाहा ।

ॐ ह्रीं मोहिनि मम शत्रून्मोहय मोहय ॐ ह्रीं

स्वाहा ।

ॐ ह्रीं संहारिणि मम शत्रून् संहारय संहारय ॐ ह्रीं स्वाहा ।

ॐ ह्रीं द्राविणि मम शत्रून् द्रावय द्रावय ॐ

ह्रीं स्वाहा ।

ॐ ह्रीं जृम्भिणि मम शत्रून् जृम्भय जृम्भय ॐ ह्रीं स्वाहा ।

ॐ ह्रीं रौद्रि मम शत्रून् सन्तापय सन्तापय

ॐ ह्रीं स्वाहा।


इयं विद्या महाविद्या सर्व शत्रु निवारिणी।

धारिता साधकेन्द्रेण सर्वान् दुष्टान् विनाशयेत् ॥

त्रिसन्ध्यमेकसन्ध्यं वा यः पठेत्स्थिरमानसः ।

न तस्य दुर्लभं लोके कल्पवृक्ष इव स्थितः ॥

यं यं स्पृशति हस्तेन यं यं पश्यति चक्षुषा ।

स एव दासतां याति सारात्सारामिमं मनुम् ॥


॥ इति श्री रुद्रयामले शिवपार्वति सम्वादे बगला प्रत्यंगिरा कवचम् ॥


//जय महामाया//